|
|
 |
 |
|
|
५ उद्योगपर्व.jpg)
॥ श्रीः ॥
5.192. अध्यायः 192
Mahabharata - Udyoga Parva - Chapter Topics
स्थूणेन शिखण्डिन्यै पुनःपुंस्त्वप्रत्यर्पणप्रतिज्ञापनपूर्वकं तदीयस्त्रीत्वस्वीकारेण स्वीयपुंस्त्वसमर्पणम् ॥ 1 ॥ दाशार्णकेन उपायात् शिखण्डिनः पुंस्त्वं निर्धार्य स्वपुरगमनम् ॥ 2 ॥ अत्रान्तरे स्थूणगृहमागतेन कुबेरेण तंप्रति स्त्रीत्वधारणस्य शिखण्डिमरणावधिकत्वरूपशापदानम् ॥ 3 ॥ पुंस्त्वप्रत्यर्पणाय गतेन शिखण्डिना स्थूणात्तद्वृत्तान्तमुपलभ्य हर्षात्स्वगृहागमनम् ॥ 4 ॥ इति भीष्मेण दुर्योधनंप्रति शिखण्डिना सह स्वेन युद्धाकरणे कारणाभिधानम् ॥ 5 ॥

Mahabharata - Udyoga Parva - Chapter Text
भीष्म उवाच। 5-193-0x(3933)(38449)
शिखण्डिवाक्यं श्रुत्वाऽथ स यक्षो भरतर्षभ ।
प्रोवाच मनसा चिन्त्य दैवेनोपनिपीडितः ॥ 5-192-1(38450)
भवितव्यं तथा तद्धि मम दुःखाय कौरव।
भद्रे कामं करिष्यामि समयं तु निबोध मे ॥ 5-192-2(38451)
`स्वं ते पुंस्त्वं प्रदास्यामि स्त्रीत्वं धारयिताऽस्मि ते'
किंचित्कालं तु ते दास्ये पुल्लिङ्गं स्वमिदं तव।
आगन्तव्यं त्वया काले सत्यं चैव वदस्व मे ॥ 5-192-3(38452)
प्रभुः संकल्पसिद्धोऽस्मि कामचारी विहंगमः ।
मत्प्रसादात्पुरं चैव त्राहि बन्धूंश्च केवलम् ॥ 5-192-4(38453)
स्त्रीलिङ्गं धारयिष्यामि तवेदं पार्थिवात्मजे।
सत्यं मे प्रतिजानीहि करिष्यामि प्रियं तव ॥ 5-192-5(38454)
शिखण्ड्युवाच। 5-192-6x(3934)
प्रतिदास्यामि भगवन्पुलिङ्गं तव सुव्रत।
किंचित्कालान्तरं स्त्रीत्वं धारयस्व निशाचर ॥ 5-192-6(38455)
प्रतियाते दशार्णे तु पार्थिवे हेमवर्मणि ।
कन्यैव हि भविष्यामि पुरुषस्त्वं भविष्यसि ॥ 5-192-7(38456)
भीष्म उवाच। 5-192-8x(3935)
इत्युक्त्वा समयं तत्र चक्राते तावुभौ नृप ।
अन्योन्यस्यानभिद्रोहे तौ संक्रामयतां ततः ॥ 5-192-8(38457)
स्त्रीलिङ्गं धारयामास स्थूणो यक्षोऽथ भारत ।
यक्षरूपं च तद्दीप्तं शिखण्डी प्रत्यपद्यत ॥ 5-192-9(38458)
ततः शिखण्डी पाञ्चाल्यः पुंस्त्वमासाद्य पार्थिव ।
विवेश नगरं हृष्टः पितरं च समासदत् ॥ 5-192-10(38459)
यथावृत्तं तु तत्सर्वमाचख्यौ द्रुपदस्य तत्।
`मातुश्च रहिते राजन्प्रसादं यक्षजं तदा।'
द्रुपदस्तस्य तच्छ्रुत्वा हर्षमाहारयत्परम् ॥ 5-192-11(38460)
सभार्यस्तच्च सस्मार महेश्वरवचस्तदा ।
ततः संप्रेषयामास दशार्णाधिपतेर्नृपः ॥ 5-192-12(38461)
पुरुषोऽयं मम सुतः श्रद्धत्तां मे भवानिति ।
अथ दाशार्णको राजा सहसाभ्यागमत्तदा ॥ 5-192-13(38462)
पाञ्चालराजं द्रुपदं दुःखशोकसमन्वितः।
ततः काम्पिल्यमासाद्य दशार्णाधिपतिस्ततः ॥ 5-192-14(38463)
प्रेषयामास सत्कृत्य दूतं ब्रह्मविदां वरम्।
ब्रूहि मद्वचनाद्दूत पाञ्चाल्यं तं नृपाधमम् ॥ 5-192-15(38464)
यन्मे कन्यां स्वकन्यार्थे वृतवानसि दुर्मते।
फलं तस्यावलेपस्य द्रक्ष्यस्यद्य न संशयः ॥ 5-192-16(38465)
एवमुक्तश्च तेनासौ ब्राह्मणो राजसत्तम।
दूतः प्रयातो नगरं दाशार्णनृपचोदितः ॥ 5-192-17(38466)
ततः आसादयामास पुरोधा द्रुपदं पुरे।
तस्मै पाञ्चालको राजा गामर्घ्यं च सुसत्कृतम् ॥ 5-192-18(38467)
प्रापयामास राजेन्द्र सह तेन शिखण्डिना ।
तां पूजां नाभ्यनन्दत्स वाक्यं चेदमुवाच ह ॥ 5-192-19(38468)
यदुक्तं तेन वीरेण राज्ञा काञ्चनवर्मणा ।
यत्तेऽहमधमाचार दुहित्राऽस्म्यभिवञ्चितः ॥ 5-192-20(38469)
तस्य पापस्य करणात्फलं प्राप्नुहि दुर्मते ।
देहि युद्धं नरपते ममाद्य रणमूर्धनि ॥ 5-192-21(38470)
उद्धरिष्यामि ते सद्यः सामात्यसुतबान्धवम् ।
तदुपालम्भसंयुक्तं श्रावितः किल पार्थिवः ॥ 5-192-22(38471)
दशार्णपतिना चोक्तो मन्त्रिमध्ये पुरोधसा।
अभवद्भरतश्रेष्ठ द्रुपदः प्रणयानतः ॥ 5-192-23(38472)
यदाह मां भवान्ब्रह्मन्संबन्धिवचनाद्वचः ।
अस्योत्तरं प्रतिवचो दूतो राज्ञे वदिष्यति ॥ 5-192-24(38473)
ततः संप्रेषयामास द्रुपदोऽपि महात्मने ।
हिरण्यवर्मणे दूतं ब्राह्मणं वेदपारगम् ॥ 5-192-25(38474)
तमागम्य तु राजानं दशार्णाधिपतिं तदा।
तद्वाक्यमाददे राजन्यदुक्तं द्रुपदेन ह ॥ 5-192-26(38475)
आगमः क्रियतां व्यक्तः कुमारोऽयं सुतो मम ।
मिथ्यैतदुक्तं केनापि तदश्रद्धेयमित्युत ॥ 5-192-27(38476)
ततः स राजा द्रुपदस्य श्रुत्वा।
विमर्शयुक्तो युवतीर्वरिष्ठाः।
संप्रेषयामास सुचारुरूपाः
शिखण्डिनं स्त्रीपुमान्वेति वेत्तुम् ॥ 5-192-28(38477)
ताः प्रेषितास्तत्त्वभावं विदित्वा
प्रीत्या राज्ञे तच्छशंसुर्हि सर्वम् ।
शिखण्डिनं पुरुषं कौरवेन्द्र
दाशार्णराजाय महानुभावम् ॥ 5-192-29(38478)
ततः कृत्वा तु राजा स आगमं प्रीतिमानथ।
संबन्धिना समागम्य हृष्टो वासमुवास ह ॥ 5-192-30(38479)
शिखण्डिने च मुदितः प्रादाद्वित्तं जनेश्वरः ।
हस्तिनोऽश्वांश्च गाश्चैव दासीर्बहुशतास्तथा । 5-192031c पूजितश्च प्रतिययौ निर्भर्त्स्य तनयां किल ॥ 5-192-31(38480)
विनीतकिल्विषे प्रीते हेमवर्मणि पार्थिवे ।
प्रतियाते दशार्णे तु हृष्टरूपा शिखण्डिनी ॥ 5-192-32(38481)
कस्यचित्त्वथ कालस्य कुबेरो नरवाहनः ।
लोकयात्रां प्रकुर्वाणः स्थूणस्यागान्निवेशनम् ॥ 5-192-33(38482)
स नद्गृहस्योपरि वतमान
आलोकयामास धनाधिगोप्ता।
स्थूणस्य यक्षस्य विवेश वेश्म
स्वलंकृतं माल्यगुणैर्विचित्रैः ॥ 5-192-34(38483)
लाचैश्च गन्धैश्च तथा वितानै-
रभ्यर्चितं धृनधृपितं च।
ध्वजैः पताकाभिरलंकृतं च
भक्ष्यान्नपेयामिपदत्तमोदम् ॥ 5-192-35(38484)
तत्स्थानं तस्य दृष्ट्वा तु सर्वतः समलंकृतम्।
मणिरत्नसुवर्णानां मालाभिः परिपूरितम् ॥ 5-192-36(38485)
नानाकुसूमगन्धाढ्यं सिक्तसंमृष्टशोभितम् ।
अथाब्रवीद्यक्षपतिस्तान्यक्षाननुगांस्तदा ॥ 5-192-37(38486)
स्वलंकृतमिदं वेश्म स्थूणस्यामितविक्रमाः ।
नोपसर्पति मां चैव कस्मादद्य स मन्दधीः ॥ 5-192-38(38487)
यस्माज्जानन्स मन्दात्मा मामसौ नोपसर्पति ।
तस्मात्तस्मै महादण्डो धार्यः स्यादिति मे मतिः ॥ 5-192-39(38488)
यक्षा ऊचुः । 5-192-40x(3936)
द्रुपदस्य सुता राजन्राज्ञो जाता शिखण्डिनी।
तस्या निमित्ते कस्मिंश्चित्प्रादात्पुरुषलक्षणम् ॥ 5-192-40(38489)
अग्रहील्लक्षणं स्त्रीणां स्त्रीभूता तिष्ठते गृहे।
नोपसर्पति तेनासौ सव्रीडः स्त्रीसरूपवान् ॥ 5-192-41(38490)
एतस्मात्कारणाद्राजन्स्थूणो न त्वाऽद्य सर्पति।
श्रुत्वा कुरु यथान्यायं विमानमिह तिष्ठताम् ॥ 5-192-42(38491)
आनीयतां स्थूण इति ततो यक्षाधिपोऽब्रवीत् ।
कर्तास्मि निग्रहं तस्य प्रत्युवाच पुनः पुनः ॥ 5-192-43(38492)
सोऽभ्यगच्छत यक्षेन्द्रमाहूतः पृथिवीपते।
स्त्रीमरूपो महाराज तस्थौ व्रीडासमन्वितः ॥ 5-192-44(38493)
तं शशापाथ संक्रुद्धो धनदः कुरूनन्दन ।
एवमेव भवत्वद्य स्त्रीत्वं पापस्य गुह्यकाः ॥ 5-192-45(38494)
ततोऽब्रवीद्यक्षपतिर्महात्मा
यस्माददास्त्ववमन्येह यक्षान्।
शिखण्डिनो लक्षणं पापबुद्धे
स्त्रीलक्षणं चाग्रहीः पापकर्मन् ॥ 5-192-46(38495)
अप्रवृत्तं सुदुर्बुद्धे यस्मादेतत्त्वया कृतम्।
तस्मादद्य प्रभृत्येव स्त्री त्वं सा पुरुषस्तथा ॥ 5-192-47(38496)
ततः प्रसादयामासुर्यक्षा वैश्रवणं किल।
स्थूणस्यार्थे कुरुष्वान्तं शापस्येति पुनः पुनः ॥ 5-192-48(38497)
ततो महात्मा यक्षेन्द्रः प्रत्युवाचानुगामिनः ।
सर्वान्यक्षगणांस्तात शापस्यान्तचिकीर्षया ॥ 5-192-49(38498)
शिखण्डिनि हते यक्षाः स्वं रूपं प्रतिपत्स्यते ।
स्थूणो यक्षो निरुद्वेगो भवत्विति महामनाः ॥ 5-192-50(38499)
इत्युक्त्वा भगवान्देवो यक्षराजः सुपूजितः ।
प्रययौ सहितः सर्वैर्निमेषान्तरचारिभिः ॥ 5-192-51(38500)
स्थूणस्तु शापं संप्राप्य तत्रैव न्यवसत्तदा।
समये चागमूत्तूर्णं शिखण्डी तं क्षपाचरम् ॥ 5-192-52(38501)
सोऽभिगम्याब्रवीद्वाक्यं प्राप्तोऽस्मि भगवन्निति।
तमब्रवीत्ततः स्थूणः प्रीतोऽस्मीति पुनः पुनः ॥ 5-192-53(38502)
आर्जवेनागतं दृष्ट्वा राजपुत्रं शिखण्डिनम् ।
सर्वमेव यथावृत्तमाचचक्षे शिखण्डिने ॥ 5-192-54(38503)
भीष्म उवाच। 5-192-55x(3937)
शप्तो वैश्रवणेनाहं त्वत्कृते पार्थिवात्मज ।
गच्छेदानीं यथाकामं चर लोकान्यथासुखम् ॥ 5-192-55(38504)
दिष्टमेतत्पुरा मन्ये न शक्यमतिवर्तितुम् ।
गमनं तव चेतो हि पौलस्त्यस्य च दर्शनम् ॥ 5-192-56(38505)
भीष्म उवाच। 5-192-57x(3938)
एवमुक्तः शिखण्डी तु स्थूणयक्षेण भारत ।
प्रत्याजगाम नगरं हर्वेण महतावृतः ॥ 5-192-57(38506)
पूजयामास विविधैर्गन्धमाल्यैर्महाधनैः ।
द्विजातीन्देवताश्चैव चैत्यानथ चतुष्पथान् ॥ 5-192-58(38507)
द्रुपदः सह पुत्रेण सिद्धार्थेन शिखण्डिना ।
मुदं च परमां लेभे पाञ्चाल्यः सह बान्धवैः ॥ 5-192-59(38508)
शिष्यार्थं प्रददौ चाथ द्रोणाय कुरुपुङ्गव ।
शिखण्डिनं महाराज पुत्रं स्त्रीपूर्विणं तथा ॥ 5-192-60(38509)
प्रतिपेदे चतुष्पादं धनुर्वेदं नृपात्मजः।
शिखण्डी सह युष्माभिर्धृष्टद्युम्नश्च पार्षतः ॥ 5-192-61(38510)
मम त्वेतच्चरास्तात यथावत्प्रत्यवेदयन् ।
जडान्धबधिराकारा ये मुक्ता द्रपदे मया ॥ 5-192-62(38511)
एवमेष महाराज स्त्री पुमान्द्रुपदात्मजः ।
स संभूतः कुरुश्रेष्ठ शिखण्डी रथसत्तमः ॥ 5-192-63(38512)
ज्येष्ठा काशिपतेः कन्या अम्बा नामेति विश्रुता ।
द्रुपदस्य कुले जाता शिखण्डी भरतर्षभ ॥ 5-192-64(38513)
नाहमेनं धनुष्पाणिं युयुत्सुं समुपस्थितम् ।
मुहूर्तमपि पश्येयं प्रहरेयं न चाप्युत ॥ 5-192-65(38514)
व्रतमेतन्मम सदा पृथिव्यामपि विश्रुतम् ।
स्त्रियां स्त्रीपूर्वके चैव स्त्रीनाम्नि स्त्रीसरूपिणि ॥ 5-192-66(38515)
न मुञ्चेयमहं बाणमिति कौरवनन्दन ।
न हन्यामहमेतेन कारणेन शिखण्डिनम् ॥ 5-192-67(38516)
एतत्तत्त्वमहं वेद जन्म तात शिखण्डिनः ।
ततो नैनं हनिष्यामि समरेष्वाततायिनम् ॥ 5-192-68(38517)
यदि भीष्मः स्त्रियं हन्यात्सन्तः कुर्युर्विगर्हणम् ।
नैनं तस्माद्धनिष्यामि दृष्ट्वापि समरे स्थितम् ॥ 5-192-69(38518)
वैशम्पायन उवाच। 5-192-70x(3939)
एतच्छ्रुत्वा तु करव्यो राजा दुर्योधनस्तदा।
मुहूर्तमिव स ध्यात्वा भीष्मे युक्तममन्यत ॥ ॥ 5-192-70(38519)
इति श्रीमन्महाभारते उद्योगपर्वणि अम्बोपाख्यानपर्वणि द्विनवत्यधिकशततमोऽध्यायः ॥
Mahabharata - Udyoga Parva - Chapter Footnotes
5-192-4 विहंगमः आकाशगामी ॥ 5-192-8 अभिसंदेहे इति झo पाठः। संदेहे लिङ्गे सम्यग् दिह्यते उपचीयेते रतिकाले प्रथेते इति व्युत्पत्तेरिति तत्रार्धः ॥ 5-192-24 उत्तरं उत्कृष्टतरम् ॥ 5-192-27 आगमः परीक्षा ॥ 5-192-61 चतुष्पादं ग्रहणधरणप्रयोगप्रातीकारैश्चतुर्भिः पादैर्युक्तम् ॥ 5-192-


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|